संस्कृ तम्
सम्यक्
भासोहास:
संस्कृ त साहित्ये अनेके कवयः अभवन्, अनेक नाटककाराः अपि अभवन्। नाटककारेषु
भासः श्रेष्ठः खलु। भासस्य रचनाकालः ख्रिष्टाब्दद्वितीयशताब्दीति। किन्तु अत्र सर्वेषां
मतैक्यं नास्ति। भासेन त्रयोदश नाटकानि रचितानि। तानि स्वप्नवासवदत्तम्,
प्रतिज्ञायौगन्धरामायणम्, बालचरितम्, पञ्चरात्रम्, प्रतिमा, अभिषेक: चारुदत्तम्,
दूतवाक्यम्, दूतघटोत्कचम् , कर्णभारम्, उरुभंगम्, अविमारकं च सन्ति।
प्रतिमानाटकं , अभिषेकनाटकं च रामायणकथामाश्रित्य लिखितम्। दूतघटोत्कचनाटकं
वीररसपूर्णम् अस्ति। अत्र दुर्योधन-घटोत्कच संवादा: ओजस्विशैल्या लिखिताः। दूतवाक्ये
श्रीक्रृ ष्णस्य उदारचरित्र तथा दुर्योधनस्य अनुदार चरित्रं चित्रितम्। उरुभंगनाटके भीम-
दुर्योधनयोः युद्धस्य वर्णनमस्ति। एतत् नाटक दुःखान्तमस्ति।
बालचरितम् नाटके श्रीकृ ष्णस्य बाललीलानां वर्णनमस्ति तथा पञ्चरात्रम् विराटपर्वतस्य
कथा कथिता। अविमारकनाटके प्रेमकथा चित्रिता।
सर्वेषु नाटके षु ‘स्वप्नवासवदत्तम्' संस्कृ तसाहित्ये विख्यातमस्ति। अस्य नाटकस्य भाषा
अतिमधुरा, सरला च वर्तते। भासेन अस्मिन् नाटके विविधानाम् अलंकाराणां प्रयोगः
कृ तः। अत्र वासवदत्ता पद्मावती-उदयन त्रयाणां कथा अतिकौशलेन प्रस्तुता।
अस्मिन् नाटके प्रसाद गुणः अस्ति। भासस्य उपमा: अप्रतिमाः खलु। तथा तस्य
वर्णनशक्तिः अद्वितीया अस्ति। नाटके सर्वे पात्रा: सजीवाः कृ ताः। इदं नाटक भासस्य
नाट्यकलायाः सर्वोत्कृ ष्टम् उदाहरणमस्ति। अत्र अस्य प्रतिभा अतिविकसिता दश्यते।
‘स्वप्नवासवदत्त' नाटकस्य अनेकासु भाषासु रूपान्तरं जातम्। भासस्य इयं रचना ईदृशी
अप्रतिमा, याम् अग्निरपि दुग्धं न समर्थः अभवत् अत: के नचित कविना उक्तम-
भासनाटक चके ऽपिच्छैकैः क्षिप्ते परीक्षितुम् स्वप्नवासवदत्तस्य दाहकोऽभून्न पावकः।
Dhatri
10C
प्रतिज्ञायौगन्धरायणम्
मालविकाग्निमित्रस्य प्रस्तावनायां स्पष्टमुक्तं सूत्रधारेण
प्रथितयशसां भाससौमिल्ल कविपुत्रादीनां प्रबन्धानतिक्रम्य कथं
वर्तमानस्य कवेः कालिदासस्य कृ तौ बहुमानः । अनेन ज्ञायते यत्
कालिदासस्य समये भासस्य महती प्रसिध्दिरासीदिति । अस्य
कृ तयः सर्वसाधारणजनेषु विख्याता आसन् । अत एव कालिदासस्य
कमनीयनाटकमपि जनाः समादरेण नावलोक्यन्ति स्म ।
कालिदासस्य परवर्तिनः कायोऽपि भासं भृशं प्रशंसयामासुः ।
श्रीबाणभट्टेन हर्षचरितस्यादौ भासस्यातिप्रशंसा कृ ता । एतन्नाटकस्य
मूलकथा बृहत्कथामञ्जरी तावत् अति प्राचिना प्रसिद्धा च।
उदयनस्य कथा या बृहत्कथामञ्जरी धर्मपदटीका, मातङ्गटीका,
मञ्जिमनिकायटीका इत्यादि बौद्धग्रन्थानां मूलकथा, एवं
कु मारपालप्रतिभोध, त्रिषष्टिशलाकापुरुषचरिता इत्यादि
जैनग्रन्थानामपि मूलकथा। मेघदूते 'उदयनकथाकोविदग्रामवृद्धान्
इति कालिदासस्य वाक्यम् बृहत्कथायाः वैशिष्ट्यं प्रदर्शयति।
Aanya
10 C
ऊरुभङ्गम्
ऊरुभङ्गम् महाकवि भासस्य नाटकम् । इदं नाटकम् महाभारत कथा आधारितम्
अस्ति । नाटकमिदम् द्वि – त्रि शताब्दौ रचितम् स्यात् ऊर्वोः भङ्गः यस्मिन् रूपके
वर्ण्यते तत् ऊरुभङ्गम् । महाभारते गदा युद्धे भीमः दुर्योधनस्य ऊरुभङ्गम् करोति ।
इदम् कार्यं गदायुद्ध नियमानुसारम् न भवति अतः कार्यस्य अस्य परिणामम्
प्रधानतया अस्मिन् नाटके वर्णितमस्ति । दुर्योधनः अस्मिन् कथानायकः अस्ति ।
K.S Vishodhan
6D